परिचय

वाक्यकारं वररुचिं भाष्यकारं पतंजलिम् | पाणिनिं सूत्रकारं प्रणतोस्मि मुनित्रयम्

संस्कृतं पृथिव्यां प्राचीना समृद्घा शास्त्रीय भाषा मन्यते। विश्ववाङ्मयेषु संस्कृतं श्रेष्ठरत्नम्इति केवलं भारते अपि तु समग्रविश्वे एतद्विषये निर्णयाधिकारिभि: जनै: स्वीकृतम् महर्षि पाणिनिना विरचिता अष्टाध्यायी इति संस्कृतव्याकरणम्अधुनापि भारते विदेशेषु भाषाविज्ञानिनां प्रेरणास्थानं वर्तते। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषा: उद्भूता:
संस्कृतभाषाया: भारतीयजीवने विश्वजीवने महत्वपूर्णं स्थानं विद्यते. संस्कृतभाषाया: सुरभारती, देववाणी, देवीवाक्‌, गीर्वाणवाणी, देवभाषा, अमरभारती इत्यादीनि बहूनि नामानि प्रसिद्घानि सन्ति॥
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेशु भवन्ति प्रत्येक-लकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति। अस्या: भाषाया: वैशिष्ट्यं नाम दंडचिह्नम् वर्तते अत्र अन्यानि विरामचिह्नानि केवलं दंडचिह्नमेव। एतदेव चिह्नम् विधानं प्रश्नम्उद्गारं सूचयति। अत: एकस्यैव वाक्यस् भिन्नान्अर्थान्प्राप्नुम: वयम्।।
एयं भाषा केवलं भारतस् अपितु विश्वस्यप्राचीनतमा भाषा मन्यते। इयं भाषा एतावती समृद्घा अस्ति यत्प्राय: सर्वासु भारतीयभाषासु न्यूनाधिकरूपेण अस्या: शब्दा: प्रयुज्यन्ते. अत: भाषाविदां मते इयं सर्वासां भाषाणां जननी मन्यते।।
विश्वस् आदिम: ग्रन्: ऋग्वेद: संस्कृतभाषायामेवास्ति। अन्ये वेदा: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश् संस्कृतभाषायामेव सन्ति। सर्वा: उपनिषद: संस्कृते उपनिबद्घाः।।

No comments:

Post a Comment